(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.46. अध्यायः 046
Mahabharata - Virata Parva - Chapter Topics
द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनंप्रति तन्निवेदनपूर्वकं दुर्निमित्तप्रदर्शनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-46-0x(3202)(30343)
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः।
राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः ॥ 4-46-1(30344)
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते।
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ॥ 4-46-2(30345)
औत्पातिकमिदं राजन्निमित्तं भवतीह नः।
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ॥ 4-46-3(30346)
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः ।
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ॥ 4-46-4(30347)
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च।
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ॥ 4-46-5(30348)
गोमायुरेष सैन्यानां रुदन्मध्येन धावति।
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ॥ 4-46-6(30349)
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ॥ 4-46-7(30350)
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः ।
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ॥ 4-46-8(30351)
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः ।
न च सूर्यः प्रतपति महद्वेदयते भयम् ॥ 4-46-9(30352)
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः ।
पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति ॥ 4-46-10(30353)
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ॥ 4-46-11(30354)
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः।
वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च।
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ॥ 4-46-12(30355)
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः।
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ॥ 4-46-13(30356)
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् ।
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ॥ 4-46-14(30357)
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ ।
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ॥ 4-46-15(30358)
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्।
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः ।
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ॥ 4-46-16(30359)
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः।
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ॥ 4-46-17(30360)
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि ।
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन ॥ ॥ 4-46-18(30361)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.